(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.290. अध्यायः 290
Mahabharata - Vana Parva - Chapter Topics
इन्द्रजिच्छरजालबन्धेन मोहाधिगमपूर्वकं भूमौ पतितयो रामलक्ष्मणयोर्विभीषणेन प्रज्ञानास्त्रेण मोहापनोदनम् ॥ 1 ॥ तथा सुग्रीवेण महौषध्या तयोर्विशल्यीकरणम् ॥ 2 ॥ ततो रामादीनां नेत्रेषु कुबेरदूतानीतजलमार्जनेनातीन्द्रियवनस्तुदर्शनशक्त्युदयः ॥ 3 ॥ ततः पुनरुपागतस्येन्प्रजितो लक्ष्मणेन वधः ॥ 4 ॥ ततः पुत्रवधामर्षेण सीतावधोद्यतस्य रावणस्याविन्ध्याख्येन वृद्धामात्येन साम्ना ततो विनिवर्तनम् ॥ 5 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-290-0x(2715)(27084)
तावुभौ पतितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ।
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा ॥ 3-290-1(27085)
तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे।
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे ॥ 3-290-2(27086)
दृष्ट्वा निपतितौ भूमौ सर्वाङ्गेषु शराचितौ।
सुग्रीवः कपिभिः सार्धं परिवार्योपतस्तिवान् ॥ 3-290-3(27087)
सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च।
हनुमननीलतारैश्च नलेन च कपीश्वरः ॥ 3-290-4(27088)
ततस्तं देशमागम्य कृतकर्मा विभीषणः।
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रमोहितौ ॥ 3-290-5(27089)
विशल्यौ चापि सुग्रीवः क्षणेनैतौ चकार ह।
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया ॥ 3-290-6(27090)
तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम्।
उभौ गतक्लमौ चास्तां णेनैतौ महारथौ ॥ 3-290-7(27091)
ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्।
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः ॥ 3-290-8(27092)
अयमम्भो गृहीत्वातु राजराजस् शासनात्।
गुह्कोऽभ्यागतः श्लेतात्त्वत्सकाशमरिंदम ॥ 3-290-9(27093)
इदमम्भः कुबेरस्ते महाराज प्रयच्छति।
अन्तर्हितानां भूतानां दर्शनार्थं परंतप ॥ 3-290-10(27094)
अनेन मृष्टनयनो भूतान्यन्तर्हितान्युत।
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति ॥ 3-290-11(27095)
तथेति रामस्तद्वारि प्रतिगृह्याभिसंस्कृतम्।
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः ॥ 3-290-12(27096)
सुग्रीवजाम्बवन्तौ चहनुमानङ्गदस्तथा।
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः ॥ 3-290-13(27097)
तथासमभवच्चापि यदुवाच विभीषणः।
क्षणेनातीन्द्रियाण्येषां चक्षुंष्यासन्युधिष्ठिर ॥ 3-290-14(27098)
इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदाऽऽत्मनः।
निवेद्य पुनरागच्छत्त्वरयाऽऽजिशिरःप्रति ॥ 3-290-15(27099)
तमागतं तु संक्रुद्धं पुनरेव युयुत्सया।
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः ॥ 3-290-16(27100)
अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्।
शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः ॥ 3-290-17(27101)
तयोः समभवद्युद्धं तदाऽन्योन्यं जीगीषतोः।
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥ 3-290-18(27102)
अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः।
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः ॥ 3-290-19(27103)
सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्च्छितः।
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान् ॥ 3-290-20(27104)
तस्येषून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः।
`वारयामास नाराचैः सौमित्रिर्मित्रनन्दनः ॥ 3-290-21(27105)
असृजल्लक्ष्मणश्चाष्टौ राक्षसाय शरान्पुनः'।
तथा तं न्यहनद्वीरस्तन्मे निगदतः शृणु ॥ 3-290-22(27106)
एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्।
द्वितीयेन तु बाणेन भुजमन्यमपातयत् ॥ 3-290-23(27107)
तृतीयेन तु बाणेन शितधारेण भास्वता।
जहार सुनसं चापि शिरो ज्वलितकुण्डलम् ॥ 3-290-24(27108)
विनिकृत्तभुजस्कन्धः कबन्धाकृतिदर्शनः।
`पपात वसुधायां तु छिन्नमूल इवद्रुमः' ॥ 3-290-25(27109)
तं हत्वासूतमप्यस्त्रैर्जघान बलिनंवरः।
लङ्कां प्रवेशयामासुस्तं रथं वाजिनस्तदा ॥ 3-290-26(27110)
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्।
स पुत्रं निहतं श्रुत्वा त्रासात्संभ्रान्तमानसः। 3-290-27(27111)
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः ॥
ङ्गमादाय दुष्टात्मा जवेनाभिपपात ह ॥ 3-290-28(27112)
तं दृष्ट्वातस्य दुर्बुद्देरविन्ध्यः पापनिश्चयम्।
शमयामास संक्रुद्धं श्रूयतां येन हेतुना ॥ 3-290-29(27113)
महाराज्येस्थितो दीप्ते न स्त्रियं हन्तुमर्हसि।
हतैवैषा यदा स्त्री च कबन्धनस्था च ते वशे ॥ 3-290-30(27114)
न चैषा दहभेदेन हतास्यादिति मे मतिः।
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत् ॥ 3-290-31(27115)
न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः।
असकृद्धि त्वया सन्द्रास्त्रासितास्त्रिदसा युधि ॥ 3-290-32(27116)
एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा।
क्रुद्धं संशमयामास जगृहे च स तद्वचः ॥ 3-290-33(27117)
निर्याणे स मतिं कृत्वा नियन्तारं क्षपाचरः।
आज्ञापयामास तदारथो मे कल्प्यतामिति ॥ 3-290-34(27118)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि नवत्यधिकद्विशततमोऽध्यायः ॥ 290 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-290-14 अतीन्द्रियाण्यतीन्द्रियार्थग्राहकाणि ॥ 3-290-17 कृतसंज्ञ विभीषणेन संकेतितः ॥ 3-290-34 निधायासिं क्षपाचर इति झ. पाठः। निधाय बद्ध्वा। असिं खङ्गम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.